अम्बरीषः Ambarisha
महाराजः अम्बरीषः श्रेष्ठः विष्णुभक्तः । अम्बरीषस्य भक्त्या तुष्टः विष्णुः तदीयरक्षणार्थं सुदर्शनचक्रं वररूपेण दत्तवान् आसीत् ।
कदाचित् अम्बरीषः आवर्षे व्रतम् आचरितवान् । व्रतस्य अन्तिमदिनत्रये उपवासं कृत्वा अन्तिम दिनस्य पूजां समाप्य यावत् भोजनार्थं सः उपविष्टवान् तावता दुर्वासाः तत्र आगतवान् । "किञ्चित् तिष्ठतु । नद्यां स्नात्वा आगच्छामि" इति उक्त्वा नदीं गतवान् च ।
बहुकालानन्तरम् अपि दूर्वासाः न प्रत्यागतवान् । "शुभमुहूर्तः यावत् अतीतः न भवेत् ततः पूर्वम् एव उपवासव्रतं समापनीयम्" इति उक्तवन्तः मुनयः अतिथयः च । गुरूणाम् आदेशानुसारं अम्बरीषः उपवासव्रतस्य समापनार्थं साङ्केतिकरूपेण तीर्थं स्वीकृतवान् ।
तत्समये दुर्वासाः तत्र आगतवान् । प्रवृत्तं सर्वं दृष्ट्वा महता कोपेन "मम आगमनतः पूर्वम् उपवासव्रतं समापयन् भवान् मम अपमाननम् आचरितवान्" इति उक्त्वा स्वजटया भूमिं ताडितवान् । तदा तत्र कश्चन राक्षसः उत्पन्नः । सः राक्षसः अम्बरीषं मारयितुम् उध्युत्तः । अम्बरीषः विष्णुचक्रं स्मृतवान् । तदा अपरक्षणे विष्णुचक्रं राक्षसं मारयित्वा दुर्वाससः समीपम् आगच्छत् ।
एतेन दुर्वासाः भीतः धावन् देवेन्द्रसमीपं गतवान् । देवेन्द्रः एतद्विषये असहायकतां प्रकटीकृतवान् । ततः धावितः दुर्वासाः ब्रह्मणः समीपं गत्वा निराशया पुनः धावन् शिवसमीपं गतवान् । शिवः अपि रक्षणदाने असहायः । अन्ते दुर्वासाः वैकुण्ठं गत्वा विष्णुपादौ शरणं गतवान् ।
विष्णुः मन्दहासं प्रकटयन् "सुदर्शनचक्रस्य उपयोगः अम्बरीषस्य अधीनः । सुदर्शनचक्रस्य कार्यं निरोध्दुम् अहम् अपि अशक्तः । अतः भवान् अम्बरीषम् एव शरणं प्रार्थयतु " इति ।
अनन्योपायः दूर्वासाः अम्बरीषसमीपं गत्वा क्षमां प्रार्थितवान् । अम्बरीषः विष्णुं स्मरन् चक्रं प्रतिस्वीकृतवान् । दुर्वाससं आदरातिथ्येन सत्कृतवान् च ।