बाणस्य लक्ष्यम् The arrow's target
वीरवरः चत्वारिंशद्वर्षीयः कश्चन कृषकः । कदाचित् तस्य मनसि आलोचना आगता । " अहं जन्मनि किमपि न साधितवान् । इतरे मम समवयस्काः ममापेक्षया कनिष्ठाः अपि कीर्तिशालिनः सञ्जाताः । केचन लक्षाधीशाः अपि जाताः । अहं तु अनामधेयः इव जीवामि " इति ।
इतः परं जीवनं व्यर्थम् इति चिन्तयन् वीरवरः अरण्यं गतवान् । तत्र मार्गे कश्चन संन्यासी मिलितः । संन्यासी पृष्टवान् " क्रूरमृगैः व्याप्तम् एतत् अरण्यं भवान् किमर्थम् आगतवान्? " इति ।
स्वामिन्! जीविते अहं किमपि न साधितवान् । अतः वैराग्येण अत्र आगतवान् " इति उक्तवान् वीरवरः ।
संन्यासी मन्दहासं प्रकटयन् " किमपि न साधितवान् इति दुःखम् अनुभवति किल भवान् ! एवं तर्हि किं साधनीयम् इति लक्ष्यम् आसीत् भवतः? " इति पृष्टवान् ।
" निर्दिष्टं लक्ष्यम् किमपि नास्ति " इति उक्तवान् वीरवरः । तदा संन्यासी पृष्टवान् " बाणः लक्ष्ये न योजितः एव । एवं स्थिते लक्ष्यम् न सिद्धम् इति खेदः किमर्थम्? " इति ।
एतेन वीरवरः विवेकं प्राप्तवान् । तद्दिने एव सः " अहं किमपि न साधितवान् " इति खेदं त्यक्त्वान् । यावच्छक्यं तावत् कार्यं कुर्वन् तृप्त्या जीवनं यापितवान् ।