वाक्चातुर्यम् | Oratory skills |
![]() |

देवराजः कदाचित् कार्यनिमित्तं नगरं गतवान् । कार्याणि समाप्य प्रत्यागच्छत् । सः कस्यचित् आपणस्य पुरतः स्थितवान् । सः च राङ्कवानाम् आपणः ।
आपणस्वामी देवराजम् आदरातिथ्येन अन्तः आहूय "भवान् क्रीणातु, मा वा क्रीणातु दर्शने का हानिः? । एषः उत्तमः राङ्कवः । मूल्यम् अपि न अधिकम् । यदि भवान् एतं धरति तर्हि जनाः भवन्तं भूस्वामी इति चिन्तयन्ति । एकवारं धृत्वा किञ्चित् दूरं गत्वा आगच्छतु तावत्" इति उक्तवान् । देवराजाय राङ्कवं धारितवान् च ।
देवराजस्य परिचयम् अप्राप्तवान् इव आपणिकः उक्तवान् "उत्तमं राङ्कवं धृतवान् भवान् निश्चयेन भूस्वामी एव कश्चित् भवेत् । सौभाग्येन अत्र उपस्थितः भवान् । आगच्छतु आगच्छतु" इति ।
आपणिकस्य वाक्चातुर्येण सन्तुष्टः देवराजः धनं दत्त्वा राङ्कवं क्रीतवान् ।