Select English Font Size

A A A A

Select Sanskrit Font Size

प्रजाप्रतिनिधिः People's representative Quiz Vocabulary quiz
Play 0:00 0:00

नागपाली सुसम्पन्नः ग्रामःतस्मिन् ग्रामे वामनमूर्तिः नाम कश्चित् आसीत्

ग्रामे यत्र कुत्रापि लघु विवादः उत्पन्नः चेदपि वामनमूर्तिः तत्र उपस्थितः भवति स्मवदति स्म " एतस्य विवादस्य निर्णयः अत्र न भविष्यतिअतः न्यायालयः गन्तव्यः " इति

एकदा कश्चन प्रजाप्रतिनिधिः राजधानीं प्रेषणीयः आसीत्किन्तु कस्यापि प्रेषणविषये ग्रामीणानाम् एकाभिप्रायः न आसीत्

अन्ते ग्रामीणाः एतद्विषये निर्णयाधिकारं ग्रामप्रमुखस्य अधीनं कृतवन्तः

ग्रामप्रमुखः दित्राणि दिनानि यावत् रात्रौ वेषान्तरेण ग्रामे सञ्चारं कृतवान्अन्ते उक्तवान् " वामनमूर्तिः एव प्रजाप्रतिनिधित्वेन राजधानीं गच्छतु " इति

तदा ग्रामीणाः आश्चर्येण पृष्टवन्तः " तं विवादजनकं वामनमूर्तिं प्रजाप्रतिनिधित्वेन प्रेषयामः वा "? इति

ग्रामप्रमुखः शान्तस्वरेण उक्तवान् " आम् वामतमूर्तिः ग्रामेषु विवादं जनयति इति मम अपि सन्देहः आसीत् एवगतद्वित्रेषु दिनेषु अटनेन मम सन्देहः वास्तविकः इति दृढीकृतःवामनमूर्तिं यदि प्रजाप्रतिनिधित्वेन प्रेषयामः तर्हि ग्रामे शान्तिः व्याप्ता भवतियतः प्रजाप्रतिनिधिः राजधान्याम् एव निवसेत् किल " इति

ग्रामवासिनः ग्रामप्रमुखस्य वचनम् अङ्गीकृतवन्तःते ऐकमत्येन वामनमूर्तिं प्रजाप्रतिनिधिं राजधानीं प्रेषितवन्तः