Select English Font Size

A A A A

Select Sanskrit Font Size

ज्ञानोदयः The rise of wisdom Quiz Vocabulary quiz
Play 0:00 0:00

चित्रपुरस्य राजा कीर्तिसेनः" सद्यः एव अहं मरणं प्राप्स्यामि " इति भीतिः तस्य मनसि कदाचित् अकस्मात् उत्पन्ना

मन्त्री धर्मसेनः एतं विषयं ज्ञातवान्अतः सः " समीपे अरण्ये तपः आचरतः ज्ञानानन्दमुनेः दर्शनं प्राप्य आगच्छतु " इति सूचितवान्

कीर्तिसेनः ज्ञानानन्दस्य आश्रमं गतवान्तत्र आत्मनः भीतिं निवेद्य पृष्टवान् " भवन्तः त्रिकालज्ञाः महातपस्विनःसर्वम् अपि जानन्ति एवयथा मरणं मम भवेत् तथा कर्तुं कोऽपि उपायः अस्ति वा " इति

ज्ञानानन्दः मन्दहासं प्रकटयन् उक्तवान् " महाराज ! भवान् इदानीम् अपि तारुण्ये अस्तिसदा एवम् एव भवामि इति चिन्तयन् मरणात् भीतः भवान्किन्तु कालान्तरे भवान् वृद्धः भविष्यतिदृष्टिः श्रवणशक्तिः क्षीणा भविष्यति दन्ताः मुखतः निर्गमिष्यन्तिदेहः दुर्बलः भविष्यतिएषः प्रकृतिधर्मःअस्याम् अवस्थायाम् चिरं जीवितव्यम् इति आशा एव भवतितदा मरणम् एव इच्छति भवान्एवं स्थिते मरणस्य भीतिः किमर्थम् ? मरणनिवारणार्थम् उपायः किमर्थम् अन्वेष्टव्यः ? " इति

कीर्तिसेनः ज्ञानानन्दं नमस्कृत्य " महात्मन् ! भवतः अनुग्रहेण मयि विवेकः उदितःमरण भीतिः इदानीं दूरङ्गताआगमनं सफलं जातम् " इति उक्त्वा राजधानीं प्रतिगतवान्