Select English Font Size

A A A A

Select Sanskrit Font Size


ऐश्वर्यरहस्यम्   The secret of wealth

रामपुरे रामचन्द्रः कश्चन धनिकः । रिक्तहस्तेन सः तं ग्रामं प्रविष्टवान् आसीत् आगमनानन्तरम् एकवर्षाभ्यन्तरे भूमिं सम्पादितवान् आसीत्सः पुनश्च पञ्चवर्षाभ्यन्तरे धनिकपङ्क्तौ स्थानं प्राप्तवान् च ।

रामचन्द्रः अल्पे अवधौ कथं धनिकः जातः इति तद्ग्रामीणः शरभः बहुचिन्तनानन्तरम् अपि ज्ञातवान् । कथञ्चित् एतत् रहस्यं ज्ञातव्यम् एव इति चिन्तयन् सः एकदा सायङ्काले रामचन्द्रस्य गृहं गतवान् ।

तदा रामचन्द्रः एकं दीपं प्रज्वाल्य प्रकोष्ठे मध्ये स्थापयन् आसीत् शरभं दृष्ट्वा सन्तोषं प्रकटयन् रामचन्द्रः आदरपूर्वकम् उक्तवान् " विशेषकारणेन आगतवान् इति भाति " ।

" तथा किमपि नास्ति " इति उक्त्वा शरभः स्वकीयसन्देहं पृष्टवान् ।

" आवां समानग्रामीणौ स्नेहितौ किल किमर्थं रहस्यं मह्यं निवेदयति भवान् " ।

" अत्र किं रहस्यम् " इति वदन् रामचन्द्रः एकं लघुकटं भूमौ प्रसार्य शरभं तत्र उपवेशितवान् । अन्तः गत्वा दीपं निर्वाप्य बहिः आगतवान् । शरभस्य पार्श्वे उपविश्य " इदानीं वार्तालापं कुर्मः " इति उक्तवान् च ।

शरभः आश्चर्येण " इदानीं आगमनसमये दीपं किमर्थं निर्वापितवान् इति अहम् न ज्ञातवान् प्रथमं तस्य कारणं वदतु " इति उक्तवान् ।

रामचन्द्रः सहजस्वरेण " सुखम् उपविश्य वार्तालापार्थ दीपः किमर्थम्? दीपः ज्वलति चेत् वृथा तैलव्ययः । अनपेक्षितव्ययः किमर्थ करणीयः " इति पृष्टवान्

एतत् श्रुत्वा शरभः झटिति उत्थाय " ज्ञातवान् अहम् । अस्तु पुनः मिलामः " इति उक्त्वा ततः प्रस्थितः ।

" किमपि रहस्यं ज्ञातव्यम् इति पृष्टवान् किल " इति पृष्टवान् रामचन्द्रः ।

" भवत्कथनतः पूर्वम् एव भवतः व्यवहारेण तत् रहस्यम् अहम् ज्ञातवान् " ।

इति वदन् शरभः स्वगृहं गतवान् एव ।